|
|
 |
 |
|
|
१ आदिपर्व.jpg)
॥ श्रीः ॥
1.33. अध्यायः 033
Mahabharata - Adi Parva - Chapter Topics
अमृतसमीपे गरुडस्य गमनम्॥ 1 ॥ अमृतं गृहीत्वा गच्छतो गरुडस्य विष्णुदर्शनम्॥ 2 ॥
विष्णुगरुडयोः परस्परं वरदानम्॥ 3 ॥ गरुडस्य सुपर्णनामप्राप्तिः॥ 4 ॥
Mahabharata - Adi Parva - Chapter Text
सौतिरुवाच। 1-33-0x(147)(1604)
जाम्बूनदमयो भूत्वा मरीचिनिकरोज्ज्वलः।
प्रविवेश बलात्पक्षी वारिवेग इवार्णवम्॥ 1-33-1(1605)
स चक्रं क्षुरपर्यन्तमपश्यदमृतान्तिके।
परिभ्रमन्तमनिशं तीक्ष्णधारमयस्मयम्॥ 1-33-2(1606)
ज्वलनार्कप्रभं घोरं छेदनं सोमहारिणाम्।
घोररूपं तदत्यर्थं यन्त्रं देवैः सुनिर्मितम्॥ 1-33-3(1607)
तस्यान्तरं स दृष्ट्वै पर्यवर्तत खेचरः।
अरान्तरेणाभ्यपतत्संक्षिप्याङ्गं क्षणेन ह॥ 1-33-4(1608)
अधश्चक्रस्य चैवात्र दीप्तानलसमद्व्युती।
विद्युज्जिह्वौ महावीर्यौ दीप्तास्यौ दीप्तलोचनौ॥ 1-33-5(1609)
चक्षुर्विषौ महाघोरौ नित्यं क्रुद्धौ तरस्विनौ।
अमृतस्यैव रक्षार्थं ददर्श भुजगोत्तमौ॥ 1-33-6(1610)
सदा संरब्धनयनौ सदा चानिमिषेक्षणौ।
तयोरेकोऽपि यं पश्येत्स तूर्णं भस्मसाद्भवेत्॥ 1-33-7(1611)
`तौ दृष्ट्वा सहसा खेदं जगाम विनतात्मजः।
कथमेतौ महावीर्यौ जेतव्यौ हरिभोजिनौ॥ 1-33-8(1612)
इति संचिन्त्य गरुडस्तयोस्तूर्णं निराकरः।'
तयोश्चक्षूंषि रजसा सुपर्णः सहसाऽऽवृणोत्।
ताभ्यामदृष्टरूपोऽसौ सर्वतः समताडयत्॥ 1-33-9(1613)
तयोरङ्गे समाक्रम्य वैनतेयोऽन्तरिक्षगः।
आच्छिनत्तरसा मध्ये सोममभ्यद्रवत्ततः॥ 1-33-10(1614)
समुत्पाट्यामृतं तत्र वैनतेयस्ततो बली।
उत्पपात जवेनैव यन्त्रमुन्मथ्य वीर्यवान्॥ 1-33-11(1615)
अपीत्वैवामृतं पक्षी परिगृह्याशु निःसृतः।
आगच्छदपरिश्रान्त आवार्यार्कप्रभां ततः॥ 1-33-12(1616)
विष्णुना च तदाकाशे वैनतेयः समेयिवान्।
तस्य नारायणस्तुष्टस्तेनालौल्येन कर्मणा॥ 1-33-13(1617)
तमुवाचाव्ययो देवो वरदोऽस्मीति खेचरम्।
स वव्रे तव तिष्ठेयमुपरीत्यन्तरिक्षगः॥ 1-33-14(1618)
उवाच चैनं भूयोऽपि नारायणमिदं वचः।
अजरश्चामरश्च स्याममृतेन विनाऽप्यहम्॥ 1-33-15(1619)
सौतिरुवाच। 1-33-16x(148)
एवमस्त्विति तं विष्णुरुवाच विनतासुतम्।
प्रतिगृह्य वनौ तौ च गरुडो विष्णुमब्रवीत्॥ 1-33-16(1620)
भवतेपि वरं दद्यां वृणोतु भगवानपि।
तं वव्रे वाहनं विष्णुर्नरुत्मन्तं महाबलम्॥ 1-33-17(1621)
ध्वजं च चक्रे भगवानुपरि स्थास्यसीति तम्।
एवमस्त्विति तं देवमुक्त्वा नारायणं खगः॥ 1-33-18(1622)
वव्राज तरसा वेगाद्वायुं स्पर्धन्महाजवः।
तं व्रजन्तं खगश्रेष्ठं वज्रेणेन्द्रोऽभ्यताडयत्॥ 1-33-19(1623)
हरन्तममृतं रोषाद्गरुडं पक्षिणां वरम्।
तमुवाचेन्द्रमाक्रन्दे गरुडः पततां वरः॥ 1-33-20(1624)
प्रहसञ्श्लक्ष्णया वाचा तथा वज्रसमाहतः।
ऋषेर्मानं करिष्यामि वज्रं यस्यास्थिसंभवम्॥ 1-33-21(1625)
वज्रस्य च करिष्यामि तवैव च शतक्रतो।
एतत्पत्रं त्यजाम्येकं यस्यान्तं नोपलप्स्यसे॥ 1-33-22(1626)
न च वज्रनिपातेन रुजा मेऽस्तीह काचन।
एवमुक्त्वा ततः पुत्रमुत्ससर्ज स पक्षिराट्॥ 1-33-23(1627)
तदुत्सृष्टमभिप्रेक्ष्य तस्य पर्णमनुत्तमम्।
हृष्टानि सर्धभूतानि नाम चक्रुर्गरुत्मतः॥ 1-33-24(1628)
सुरूपं पत्रमालक्ष्य सुपर्णोऽयं भवत्विति।
तद्दृष्ट्वा महदाश्चर्यं सहस्राक्षः पुरंदरः।
खगो महदिदं भूतमिति मत्वाऽभ्यभाषत॥ 1-33-25(1629)
बलं विज्ञातुमिच्छामि यत्ते परमनुत्तमम्।
सख्यं चानन्तमिच्छामि त्वया सह खगोत्तम॥ ॥ 1-33-26(1630)
इति श्रीमन्महाभारते आदिपर्वणि आस्तीपर्वणि त्रयस्त्रिंशोऽध्यायः॥ 33 ॥
Mahabharata - Adi Parva - Chapter Footnotes
1-33-4 संक्षिप्य अणुतरं कृत्वा॥ 1-33-10 तयोः अङ्गे देहौ आच्छिनत् खण्डशः कृतवान्॥ 1-33-11 यन्त्रमुन्मथ्य अमृतं अमृतकुम्भं समुत्पाठ्य उत्पपातेत्यन्वयः॥ 1-33-12 आवार्य वारयित्वा तिरस्कृत्येत्यर्थः॥ 1-33-13 अलौल्येन अमृतपानलोभराहित्येन॥ 1-33-14 उपरि ध्वजे इत्यर्थः॥ 1-33-19 स्पर्धावानिवाचरतीति स्पर्धन्॥ 1-33-20 आक्रन्दे कलकले॥ 1-33-21 ऋषेः दधीचेः॥ त्रयस्त्रिंशोऽध्यायः॥ 33 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|